|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.27. अध्यायः 027
Mahabharata - Shalya Parva - Chapter Topics
सहदेवेन शकुन्युलूकयोर्वधः॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-27-0x(5125)(61622)
तस्मिन्प्रवृत्ते सङ्ग्रामे गजवाजिनरश्रो
शकुनिः सौबलो राजन्सहदेवं xxxxxxयात्॥ 9-27-1(61623)
ततोऽस्यापततस्तूर्णं सहदेवः पतापवान्।
शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान्।
उलूकं च रणे राजन्विव्याध दशभिः शरैः॥ 9-27-2(61624)
शकृनिश्च महाराज भीमं विद्ध्वा त्रिभिः शरैः।
नवत्या निशितैर्बाणैः सहदेवमवाकिरत्॥ 9-27-3(61625)
ते शूराः समरे राजन्समासाद्य परस्परम्।
विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः।
स्वर्णपुङ्खैः शिलधौतैराकर्णप्रहितैः शरैः॥ 9-27-4(61626)
तेषां चापगुणोत्सृष्टा शरवृष्टिर्विशाम्पते।
आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः॥ 9-27-5(61627)
ततः क्रुद्धो रणे भीमः सहदेवश्च भारत।
चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ॥ 9-27-6(61628)
ताभ्यां शरशतैश्छनं तद्बलं तव भारत।
सान्धकारमिवाकाशमभवत्तत्रतत्र ह॥ 9-27-7(61629)
अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशाम्पते।
तत्रतत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून्॥ 9-27-8(61630)
निहतानां हयानां च सहैव हयसादिभिः।
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष॥ 9-27-9(61631)
ऋष्टिभिः शक्तिभिश्चैव सासिप्रासपरश्वथैः।
सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव॥ 9-27-10(61632)
योधास्तत्र महाराज समासाद्य परस्परम्।
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम्॥ 9-27-11(61633)
उद्वृत्तनयनै रोषात्सन्दष्टौष्ठपुटैर्मुखैः।
सकुण्डलैर्मही च्छन्ना पद्मकिञ्चल्कसन्निभैः॥ 9-27-12(61634)
भुजैश्छिन्नैर्महाराज नागराजकरोपमैः।
साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वथैः॥ 9-27-13(61635)
कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि।
क्रव्यादगणसञ्छन्ना घोराऽभूत्पृथिवी विभो॥ 9-27-14(61636)
अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे।
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम्॥ 9-27-15(61637)
एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान्।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम्॥ 9-27-16(61638)
स विह्वलो महाराज रथोपस्थ उपाविशत्॥ 9-27-17(61639)
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान्।
सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत॥ 9-27-18(61640)
निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः।
स निर्भिद्याकरोच्चैव सिंहनादमरिन्दमः॥ 9-27-19(61641)
तेन शभ्देन वित्रस्ताः सर्वे सहयवारणाः।
प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः॥ 9-27-20(61642)
प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत्।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः॥ 9-27-21(61643)
इह कीर्ति समाधाय प्रेत्य लोकान्समश्नुते।
प्राणाञ्जहाति यो धीरो युद्धे पृष्ठमदर्शयन्॥ 9-27-22(61644)
एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः।
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम्॥ 9-27-23(61645)
द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः।
क्षुब्धसागरसङ्काशः क्षुभितैः सर्वतो दिशम्॥ 9-27-24(61646)
तांस्ततः पुरतो दृष्ट्वा सौबलस्य पदानुगान्।
प्रत्युद्ययुर्महाराज पाण्डवा विजयोद्यताः॥ 9-27-25(61647)
प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम्पते।
शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः।
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव॥ 9-27-26(61648)
अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः।
विव्याध नकुलं षष्ट्या भीमसेनं च सप्ताभिः॥ 9-27-27(61649)
उलूकोऽपि महाराज भीमं विव्याध सप्तभिः।
सहदेवं च सप्तत्या परीप्सन्पितरं रणे॥ 9-27-28(61650)
तं भीमसेनः समरे विव्याध नवभिः शरैः।
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः॥ 9-27-29(61651)
ते हन्यमाना भीमेन नाराचैस्तैलपायितैः।
सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः।
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः॥ 9-27-30(61652)
ततोऽस्यापततः शूरः सहदेवः प्रतापवान्।
उलूकस्य महाराज भल्लेनापाहरच्छिरः॥ 9-27-31(61653)
स जगाम रथाद्भूमिं सहदेवेन पातितः।
रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि॥ 9-27-32(61654)
पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत।
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन्॥ 9-27-33(61655)
चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन्।
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः॥ 9-27-34(61656)
तानपास्य शरान्मुक्ताञ्शरसङ्घैः प्रताम्पवान्।
सहदेवो महाराज धनुश्चिच्छेद संयुगे॥ 9-27-35(61657)
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा।
प्रगृह्य विपुलं खङ्गं सहदेवाय प्राहिणोत्॥ 9-27-36(61658)
तमापतन्तं सहसा घोररूपं विशाम्पते।
द्विधा चिच्छेद समरे सौबलस्य हसन्निव॥ 9-27-37(61659)
असिं दृष्ट्वा द्विधा च्छिन्नं प्रगृह्य महतीं गदाम्।
प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि॥ 9-27-38(61660)
ततः शक्तिं महाघोरां कालरात्रीमिवोद्यताम्।
प्रेषयामास सक्रुद्धः पाण्डवं प्रति सौबलः॥ 9-27-39(61661)
तामापतन्तीं सहसा शरैः कनकभूषणैः।
त्रिधा चिच्छेद समरे सहदेवो हसन्निव॥ 9-27-40(61662)
सा पपात त्रिधा च्छिन्ना भूमौ कनकभूषणा।
शीर्यमाणा यथा दीप्ता गगनाद्वै शतहदा॥ 9-27-41(61663)
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम्।
दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः॥ 9-27-42(61664)
अथोत्क्रुष्टं महच्चासीत्पाण्डवैर्जितकाशिभिः।
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाऽभवन्॥ 9-27-43(61665)
तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान्।
शरैरनेकसाहस्रैर्वारयामास संयुगे॥ 9-27-44(61666)
ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम्।
आससाद रमे यान्तं सहदेवोऽथ सौबलम्॥ 9-27-45(61667)
स्वमंशमवशिष्टं तं संस्मृत्य शकुनिं नृप।
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात्॥ 9-27-46(61668)
अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः।
स सौबलमभिद्रुत्य गार्ध्रपत्रैः शिलाशितैः॥ 9-27-47(61669)
भृशमभ्यहन्त्कुद्धस्तोत्रैरिव महाद्विपम्।
उवाच चैनं मेधावी विगृह्य स्मारयन्निव॥ 9-27-48(61670)
क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव।
यत्तदा भाषसे मूढ गृह्णन्नक्षान्सभातले।
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते॥ 9-27-49(61671)
निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा।
दुर्योधनः कुलाङ्गारः शिष्टस्त्वं चास्य मातुलः॥ 9-27-50(61672)
अद्य ते निहनिष्यामि क्षुरेणोन्मथितं शिरः।
वृक्षात्फलमिवाविद्वं लगुडेन प्रमाथिना॥ 9-27-51(61673)
एवमुक्त्वा महाराज सहदेवो महाबलः।
सङ्क्रुद्धो रणशार्दूलो वेगेनाभिजगाम तम्॥ 9-27-52(61674)
अभिगम्य सुदुर्धर्षः सहदेवो युधां पतिः।
विकृष्य बलवच्चापं क्रोधेन प्रज्वलन्निव॥ 9-27-53(61675)
शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः।
छत्रं ध्वजं धनुश्चास्य च्छित्त्वा सिंह इवानदत्॥ 9-27-54(61676)
छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः।
कृतो विद्धश्च बहुभिः सर्वमर्मसु सायकैः॥ 9-27-55(61677)
ततो भूयो महाराज सहदेवः प्रतापवान्।
शकुनेः प्रेषयान्मास शरवृष्टिं दुरासदाम्॥ 9-27-56(61678)
ततस्तु क्रुद्धः सुबलस्य पुत्रो
माद्रीसुतं सहदेवं विमर्दे।
प्रासेन जाम्बूनदभूषणेन
जिघांसुरेकोऽभिपपात शीघ्रम्॥ 9-27-57(61679)
माद्रीसुतस्तस्य समुद्यतं तं
प्रासं सुवृत्तौ च भुजौ रणाग्रे।
भल्लैस्त्रिभिर्युगपत्सञ्चकर्त
ननाद चोच्चैस्तरसाऽऽजिमध्ये॥ 9-27-58(61680)
तस्याशुकारी सुसमाहितेन
सुवर्णपुङ्खेन दृढायसेन।
भल्लेन सर्वावरणातिगेन
शिरः शरीरात्प्रममाथ भूयः॥ 9-27-59(61681)
शरेण कार्तस्वरभूषितेन
दिवाकराभेण सुसंहितेन।
हृतोत्तमाङ्गो युधि पाण्डवेन
पपात भूमौ सुबलस्य पुत्रः॥ 9-27-60(61682)
स तच्छिरो वेगवता शरेण
सुवर्णपुङ्खेन शिलाशितेन।
प्रावेरयत्कुपितः पाण्डुपुत्रो
यत्तत्कुरूणामनयस्य मूलम्॥ 9-27-61(61683)
भुजौ सुवृत्तौ प्रचकर्त वीरः
पश्चात्कबन्धं रुधिरावसिक्तम्।
विस्पन्दमानं निपपात घोरं
रथोत्तमात्पार्थिव पार्थिवस्य॥ 9-27-62(61684)
हृतोत्तमाङ्गं शकुनिं समीक्ष्य
भूमौ शयानं रुधिरार्द्रगात्रम्।
योधास्त्वदीया भयनष्टसत्वा
दिशः प्रजग्मुः प्रगृहीतशस्त्राः॥ 9-27-63(61685)
प्रविद्रुताः शुष्कमुखा विसञ्ज्ञा
गाण्डीवघोषेण समाहताश्च।
भयार्दिता भग्नरथाश्वनागाः
पदातयश्चैव सधार्तराष्ट्राः॥ 9-27-64(61686)
ततो रथाच्छकुनिं पातयित्वा
मुदान्विता भारत पाण्डवेयाः
शङ्कान्प्रदध्युः समरेऽतिहृष्टाः
सकेशवाः सैनिकान्हर्षयन्तः॥ 9-27-65(61687)
तं चापि सर्वे प्रतिपूजयन्तो
दृष्ट्वा ब्रुवाणाः सहदेवमाजौ।
दिष्ट्या हतो नैकृतिको महात्मा
सहात्मजो वीर रणे त्वयेति॥ ॥ 9-27-66(61688)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे सप्तविंशोऽध्यायः॥ 27 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-27-7 अलङ्कृतमिवाकाशं इति क.पाठः॥ 9-27-49 यत्तदा हृष्यसे मृढ ग्लहन्नक्षैः इति झ.पाठः॥ 9-27-27 सप्तविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|